(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.107. अध्यायः 107
Mahabharata - Adi Parva - Chapter Topics
शान्तनुभीष्मयोश्चरितम्॥ 1 ॥ शान्तनोः पुनर्गङ्गादर्शनं तया सह संवादश्च॥ 2 ॥ गङ्गादत्तेन भीष्मेण सह शान्तनोः स्वपुरप्रवेशः॥ 3 ॥ भीष्मस्य यौवराज्येभिषेकः॥ 4 ॥ शान्तनुभावं ज्ञात्वा दाशाशयानुसारेण प्रतिज्ञापूर्वकं भीष्मेण दाशकन्यानयनम्॥ 5 ॥ तुष्टेन शान्तनुना भीष्माय स्वच्छन्दमरणवरदानम्॥ 6 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-107-0x(651)(4704)
स राजा शान्तनुर्धीमान्देवराजर्षिसत्कृतः।
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः॥ 1-107-1(4705)
शान्तनोः कीर्तयिष्यामि सर्वानेव गुणानहम्।
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्।
नित्यान्यासन्महासत्वे शान्तनौ पुरुषर्षभे॥ 1-107-2(4706)
एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः।
आसीद्भरतवंशस्य गोप्ता सर्वजनस्य च॥ 1-107-3(4707)
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः॥ 1-107-4(4708)
तस्य कीर्तिमतो वृत्तमवेक्ष्य सततं नराः।
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः॥ 1-107-5(4709)
एवमासीन्महासत्वः शान्तनुर्भरतर्षभ।
न चास्य सदृशः कश्चिद्धर्मतः पार्थिवोऽभवत्॥ 1-107-6(4710)
वर्तमानं हि धर्मेषु सर्वधर्मभृतां वरम्।
तं महीपा महीपालं राजराज्येऽभ्यषेचयन्॥ 1-107-7(4711)
वीतशोकभयाबाधाः सुखस्वप्ननिबोधनाः।
पतिं भारतगोप्तारं समपद्यन्त भूमिपाः॥ 1-107-8(4712)
तेन कीर्तिमता शिष्टाः शक्रप्रतिमतेजसा।
यज्ञदानक्रियाशीलाः समपद्यन्त भूमिपाः॥ 1-107-9(4713)
शान्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा।
नियमात्सर्ववर्णानां धर्मोत्तरमवर्तत॥ 1-107-10(4714)
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः।
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः॥ 1-107-11(4715)
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने।
वसन्सागरपर्यन्तामन्वशासद्वसुन्धराम्॥ 1-107-12(4716)
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः।
दानधर्मतपोयोगाच्छ्रिया परमया युतः॥ 1-107-13(4717)
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः॥
तेजसा सूर्यकल्पोऽभूद्वायुवेगसमो जवे।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः॥ 1-107-14(4718)
वधः पशुवराहाणां तथैव मृगपक्षिणाम्।
शान्तनौ पृथिवीपाले नावर्तत तथा नृप॥ 1-107-15(4719)
ब्रह्मधर्मोत्तरे राज्ये शान्तनुर्विनयात्मवान्।
समं शशास भूतानि कामरागविवर्जितः॥ 1-107-16(4720)
`चकोरनेत्रस्ताम्रास्यः सिंहर्षभगतिर्युवा।
गुणैरनुपमैर्युक्तः समस्तैराभिगामिकैः।
गम्भीरः सत्वसंपन्नः पूर्णचन्द्रनिभाननः॥' 1-107-17(4721)
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः।
न चाधर्मेण केषांचित्प्राणिनामभवद्वधः॥ 1-107-18(4722)
असुखानामनाथानां तिर्यग्योनिषु वर्तताम्।
स एव राजा सर्वेषां भूतानामभवत्पिता॥ 1-107-19(4723)
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति।
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः॥ 1-107-20(4724)
`यज्ञार्थं पशवः सृष्टाः संतानार्थं च मैथुनम्।'
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथाऽपराः।
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः॥ 1-107-21(4725)
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः।
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः॥ 1-107-22(4726)
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च।
महाबलो महासत्वो महावीर्यो महारथः॥ 1-107-23(4727)
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्।
भागीरथीमल्पजलां शान्तनुर्दृष्टवान्नृपः॥ 1-107-24(4728)
तां दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः।
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा॥ 1-107-25(4729)
ततो निमित्तमन्विच्छन्ददर्श स महामनाः।
कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम्॥ 1-107-26(4730)
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरन्दरम्।
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्॥ 1-107-27(4731)
तां शरैराचितां दृष्ट्वा नदीं गङ्गां तदन्तिके।
अभवद्विस्मितो राजा दृष्ट्वा कर्मातिमानुषम्॥ 1-107-28(4732)
जातमात्रं पुरा दृष्टं तं पुत्रं शान्तनुस्तदा।
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम्॥ 1-107-29(4733)
स तु तं पितरं दृष्ट्वा मोहयामास मायया।
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत॥ 1-107-30(4734)
तदद्बुतं ततो दृष्ट्वा तत्र राजा स शान्तनुः।
सङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह॥ 1-107-31(4735)
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्।
गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम्॥ 1-107-32(4736)
अलङ्कृतामाभरणैर्विरजोम्बरधारिणीम्।
दृष्टपूर्वामपि स तां नाभ्यजानात्स शान्तनुः॥ 1-107-33(4737)
गङ्गोवाच। 1-107-34x(652)
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यविन्दथाः।
स चायं पुरुषव्याघ्र सर्वास्त्रविदनुत्तमः॥ 1-107-34(4738)
गृहाणेमं महाराज मया संवर्धितं सुतम्।
आदाय पुरुषव्याघ्र नयस्वैनं गृहं विभो॥ 1-107-35(4739)
वेदानधिजगे साङ्गान्वसिष्ठादेष वीर्यवान्।
कृतास्त्रः परमेष्वासो देवराजसमो युधि॥ 1-107-36(4740)
सुराणां संमतो नित्यमसुराणां च भारत।
उशा वेद यच्छास्त्रमयं तद्वेद सर्वशः॥ 1-107-37(4741)
तथैवाङ्गिरसः पुत्रः सुरसुरनमस्कृतः।
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम्॥ 1-107-38(4742)
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि।
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान्॥ 1-107-39(4743)
यदस्त्रं वेद राभश्च तदेतस्मिन्प्रतिष्ठितम्।
महेष्वासमिमं राजन्राजधर्मार्थकोविदम्॥ 1-107-40(4744)
मया दत्तं निजं पुत्रं वीरं वीर गृहं नय। 1-107-41(4745)
वैशम्पायन उवाच।
`इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत।'
तयैवं समनुज्ञातः पुत्रमादाय शान्तनुः॥ 1-107-41x(653)
भ्राजमानं यथाऽदित्यमाययौ स्वपुरं प्रति।
पौरवस्तु पुरीं गत्वा पुरन्दरपुरोपमाम्॥ 1-107-42(4746)
सर्वकामसमृद्धार्थं मेने सोत्मानमात्मना।
पौरवेषु ततः पुत्रं राज्यार्थमभयप्रदम्॥ 1-107-43(4747)
गुणवन्तं महात्मानं यौवराज्येऽभ्यषेचयत्।
पौरवाञ्शान्तनोः पुत्रः पितरं च महायशाः॥ 1-107-44(4748)
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ।
स तथा सह पुत्रेण रममाणो महीपतिः॥ 1-107-45(4749)
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः।
स कदाचिद्वनं यातो यमुनामभितो नदीम्॥ 1-107-46(4750)
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम्।
तस्य प्रभवमन्विच्छन्विचचार समन्ततः॥ 1-107-47(4751)
स ददर्श तदा कन्यां दाशानां देवरूपिणीम्।
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम्॥ 1-107-48(4752)
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि।
साऽब्रवीद्दाशकन्याऽस्मि धर्मार्थं वाहये तरिम्॥ 1-107-49(4753)
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः।
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्॥ 1-107-50(4754)
समीक्ष्य राजा दाशेयीं कामयामास शान्तनुः।
स गत्वा पितरं तस्या वरयामास तां तदा॥ 1-107-51(4755)
पर्यपृच्छत्ततस्तस्याः पितरं सोत्मकारणात्।
स च तं प्रत्युवाचेदं दाशराजो महीपतिम्॥ 1-107-52(4756)
जातमात्रैव मे देया वराय वरवर्णिनी।
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर॥ 1-107-53(4757)
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ।
सत्यवागसि सत्येन समयं कुरु मे ततः॥ 1-107-54(4758)
समयेन प्रदद्यां ते कन्यामहमिमां नृप।
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति॥ 1-107-55(4759)
शान्तनुरुवाच। 1-107-56x(654)
श्रुत्वा तव वरं दाश व्यवस्येयमहं तव।
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन॥ 1-107-56(4760)
दाश उवाच। 1-107-57x(655)
अस्यां जायेत यः पुत्रः स राजा पृथिवीपते।
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव॥ 1-107-57(4761)
वैशम्पायन उवाच। 1-107-58x(656)
नाकामयत तं दातुं वरं दाशाय शान्तनुः।
शरीरजेन तीव्रेण दह्यमानोऽपि भारत॥ 1-107-58(4762)
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः।
प्रत्ययाद्धास्तिनपुरं कामोपहतचेतनः॥ 1-107-59(4763)
ततः कदाचिच्छोचन्तं शान्तनुं ध्यानमास्थितम्।
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्॥ 1-107-60(4764)
सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः।
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः॥ 1-107-61(4765)
ध्यायन्निव च मां राजन्नाभिभाषसि किंचन।
न चाश्वेन विनिर्यासि विवर्णो हरिणः कृशः॥ 1-107-62(4766)
व्याधिमिच्छामि ते ज्ञातुं प्रतिकुर्यां हि तत्र वै। 1-107-63(4767)
`वैशम्पायन उवाच।
स तं काममवाच्यं वै दाशकन्यां प्रतीदृशम्॥ 1-107-63x(657)
विवर्तुं नाशकत्तस्मै पिता पुत्रस्य शान्तनुः।'
एवमुक्तः स पुत्रेण शान्तनुः प्रत्यभाषत॥ 1-107-64(4768)
असंशयं ध्यानपरो यथा वत्स तथा शृणु।
अपत्यं नस्त्वमेवैकः कुले महति भारत॥ 1-107-65(4769)
शस्त्रनित्यश्च सततं पौरुषे पर्यवस्थितः।
अनित्यतां च लोकानामनुशोचामि पुत्रक॥ 1-107-66(4770)
कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम्।
असंशयं त्वमेवैकः शतादपि वरः सुतः॥ 1-107-67(4771)
न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे।
संतानस्याविनाशाय कामये भद्रमस्तु ते॥ 1-107-68(4772)
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः।
`चक्षुरेकं च पुत्रश्च अस्ति नास्ति च भारत।
चक्षुर्नाशे तनोर्नाशः पुत्रनाशे कुलक्षयः॥' 1-107-69(4773)
अग्निहोत्रं त्रयी विद्या यज्ञाश्च सहदक्षिणाः।
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्॥ 1-107-70(4774)
एवमेतन्मनुष्येषु तच्च सर्वं प्रजास्विति।
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः॥ 1-107-71(4775)
`अपत्येनानृणो लोके पितॄणां नास्ति संशयः।'
एषा त्रयी पुराणानां देवतानां च शाश्वती॥ 1-107-72(4776)
`अपत्यं कर्म विद्या च त्रीणि ज्योतींषि भारत॥' 1-107-73(4777)
त्वं च शूरः सदाऽमर्षी शस्त्रनित्यश्च भारत।
नान्यत्र युद्धात्तस्मात्ते निधनं विद्यते क्वचित्॥ 1-107-74(4778)
सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्।
इति ते कारणं तात दुःखस्योक्तमशेषतः॥ 1-107-75(4779)
वैशम्पायन उवाच। 1-107-76x(658)
ततस्तत्कारणं राज्ञो ज्ञात्वा सर्वमशेषतः।
देवव्रतो महाबुद्धिः प्रज्ञया चान्वचिन्तयत्॥ 1-107-76(4780)
अपत्यफलसंयुक्तमेतच्छ्रुत्वा पितुर्वचः।
सूतं भूयोऽपि संतप्त आह्वयामास वै पितुः॥ 1-107-77(4781)
सूतस्तु कुरुमुख्यस्य उपयातस्तदाज्ञया।
तमुवाच महाप्राज्ञो भीष्मो वै सारथिं पितुः॥ 1-107-78(4782)
त्वं सारथे पितुर्मह्यं सखासि रथधूर्गतः।
अपि जानासि यदि वै कस्यां भावो नृपस्य तु॥ 1-107-79(4783)
तदाचक्ष्व भवान्पृष्टः करिष्ये न तदन्यथा। 1-107-80(4784)
सूत उवाच।
दाशकन्या कुरुश्रेष्ठ तत्र भावः पितुर्गतः॥ 1-107-80x(659)
वृतः स नरदेवेन तदा वचनमब्रवीत्।
योऽस्यां पुमान्भवेज्जातः स राजा त्वदनन्तरम्॥ 1-107-81(4785)
नाकामयत तं दातुं पिता तव वरं तदा।
स चापि निश्चयस्तस्य न च दद्यां ततोऽन्यथा॥ 1-107-82(4786)
एतत्ते कथितं वीर कुरुष्व यदनन्तरम्। 1-107-83(4787)
वैशम्पायन उवाच।
ततः स पितुराज्ञाय मतं सम्यगवेक्ष्य च।
ज्ञात्वा च मानसं पुत्रः प्रययौ यमुनां प्रति॥ 1-107-83x(660)
क्षत्रियैः सह धर्मात्मा पुराणैर्धर्मचारिभिः।
उच्चैश्श्रवसमागम्य कन्यां वव्रे पितुः स्वयम्'॥ 1-107-84(4788)
तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च।
अब्रवीच्चैनमासीनं राजसंसदि भारत॥ 1-107-85(4789)
`राज्यशुल्का प्रदातव्या कन्येयं याचतां वर।
अपत्यं यद्भवेदस्याः स राजाऽस्तु पितुः परम्॥' 1-107-86(4790)
त्वमेवात्र महाबाहो शान्तनोर्वंशवर्धनः।
पुत्रः शस्त्रभृतां श्रेष्ठः किं नु वक्ष्यामि ते वचः॥ 1-107-87(4791)
`कुमारिकायाः शुल्कार्थं किंचिद्वक्ष्यामि भारत।'
कोहि संबन्धखं श्लाघ्यमीप्सितं यौनमीदृशम्।
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः॥ 1-107-88(4792)
अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः।
यस्य शुक्रात्सत्यवती संभूता वरवर्णिनी॥ 1-107-89(4793)
तेन मे बहुशस्तात पिता ते परिकीर्तितः।
अर्हः सत्यवतीं वोढुं धर्मज्ञः स नराधिपः॥ 1-107-90(4794)
`इयं सत्यवती देवी पितरं तेऽब्रवीत्तथा।
अर्थितश्चापिराजर्षिः प्रत्याख्यातः पुरा मया'॥ 1-107-91(4795)
कन्यापितृत्वात्किंचित्तु वक्ष्यामि त्वां नराधिप।
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्॥ 1-107-92(4796)
`भूयांसं त्वयि पश्यामि तद्दोषमपराजित।'
यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा॥ 1-107-93(4797)
न स जातु चिरं जीवेत्त्वयि क्रुद्धे परन्तप।
एतावानत्र दोषो हि नान्यः कश्चन पार्थिव॥ 1-107-94(4798)
एतज्जानीहि भद्रं ते दानादाने परन्तप॥ 1-107-95(4799)
वैशम्पायन उवाच। 1-107-96x(661)
एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत।
शृण्वतां भूमिपालानां पितुरर्थाय भारत॥ 1-107-96(4800)
`इदं वचनमाधत्स्व नास्ति वक्तास्य मत्समः।
अन्यो जातो न जनिता न च कश्चन संप्रति'॥ 1-107-97(4801)
एवमेतत्करिष्यामि यथा त्वमनुभाषसे।
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति॥ 1-107-98(4802)
इत्युक्तः पुनरेव स्म तं दाशः प्रत्यभाषत।
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ॥ 1-107-99(4803)
त्वमेव नाथः संप्राप्तः शान्तनोरमितद्युते।
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः॥ 1-107-100(4804)
इदं तु वचनं सौम्य कार्यं चैव निबोध मे।
कौमारिकाणां शीलेन वक्ष्याम्यहमरिन्दम॥ 1-107-101(4805)
यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण।
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत्॥ 1-107-102(4806)
नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन।
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान्॥ 1-107-103(4807)
वैशम्पायन उवाच। 1-107-104x(662)
तस्यैतन्मतमाज्ञाय सत्यधर्मपरायणः।
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया॥ 1-107-104(4808)
गाङ्गेय उवाच। 1-107-105x(663)
`उच्चैश्श्रवः समाधत्स्व प्रतिज्ञां जनसंसदि।
ऋषयो वाथ वा देवा भूतान्यन्तर्हितानि च॥ 1-107-105(4809)
यानि यानीह शृण्वन्तु नास्ति वक्तास्य मत्समः।'
दाशराज निबोधेदं वचनं मे नृपोत्तम॥ 1-107-106(4810)
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते।
राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिपाः॥ 1-107-107(4811)
अपत्यहेतोरपि च करिष्येऽद्य विनिश्चयम्।
अद्यप्रभृति मे दाश ब्रह्मचर्यं भविष्यति॥ 1-107-108(4812)
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि।
`न हि जन्मप्रभृत्युक्तं मया किंचिदिहानृतम्॥ 1-107-109(4813)
यावत्प्राणा ध्रियन्ते वै मम देहं समाश्रिताः।
तावन्न जनयिष्यामि पित्रे कन्यां प्रयच्छ मे॥ 1-107-110(4814)
परित्यजाम्यहं राज्यं मैथुनं चापि सर्वशः।
ऊर्ध्वरेता भविष्यामि दाश सत्यं ब्रवीमि ते॥' 1-107-111(4815)
वैशम्पायन उवाच। 1-107-112x(664)
तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः।
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत॥ 1-107-112(4816)
ततोन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तदा।
`तद्दृष्टा दुष्करं कर्म प्रशशंसुश्च पार्थिवाः॥' 1-107-113(4817)
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन्।
ततः स पितुरर्थाय तामुवाच यशस्विनीम्॥ 1-107-114(4818)
अधिरोह रथं मातर्गच्छावः स्वगृहानिति।
एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीं॥ 1-107-115(4819)
आगम्य हास्तिनपुरं शान्तनोः संन्यवेदयत्।
तस्य तद्दुष्करं कर्म प्रशशंसुर्नाराधिपाः॥ 1-107-116(4820)
समेताश्च पृथक्चैव भीष्मोयमिति चाब्रुवन्।
तच्छ्रुत्वा दुष्करं कर्म कृतं भीष्मेण शान्तनुः॥ 1-107-117(4821)
बभूव दुःखितो राजा चिररात्राय भारत।
स तेन कर्मणा सूनोः प्रीतस्तस्मै वरं ददौ॥' 1-107-118(4822)
स्वच्छन्दमरणं तुष्टो ददौ तस्मै महात्मने।
न ते मृत्युः प्रभविता यावज्जीवितुमिच्छसि॥ 1-107-119(4823)
त्वत्तो ह्यनुज्ञां संप्राप्य मृत्युः प्रभविताऽनघ॥ 1-107-120(4824)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्ताधिकशततमोऽध्यायः॥ 107 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-107-12 पुटभेदने पत्तने॥ 1-107-16 ब्रह्मधर्मोत्तरे अहिंसाधर्मप्रधाने॥ 1-107-20 वाक् सत्यं श्रिताभवत्॥ 1-107-36 अधिजगे अधीतवान्॥ 1-107-49 तरिं नावम्॥ 1-107-56 व्यवस्येयं विनिश्चिनुयम्॥ 1-107-58 शरीरजेन कामेन॥ 1-107-62 हरिणः पाण्डुगात्रः॥ 1-107-72 पुराणानां पुरातनानाम्॥ 1-107-95 दाने वसुवचनं अदाने बलवत्सपत्नता अत्र कारणमिति शेषः॥ सप्तोत्तरशततमोऽध्यायः॥ 107 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.